पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
लक्ष्मीनृसिंहकरुणारसस्तोत्रम् ।


संसारवृक्षमघबीजमनन्तकर्म-
 शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलिनं चकितं दयालो
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥

संसारसागरविशालकरालकाल-
 नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥

संसारसागरनिमज्जनमुह्यमानं
 दीनं विलोक्य विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारकृतावतार
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥

संसारघोरगहने चरतो मुरारे
 मारोग्रभीकरमृगप्रचुरार्दितस्य ।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
 लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥