पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ललितात्रिशतीभाष्यमा क्तिमजनपरप्राणिलोकस्य उपासनापरिपाकमहिना अपरोक्षी- कृताज्ञाननिवृत्तिपूर्वक भयापकरणेनानन्द प्रापयतीति तयो पमितेति भाव । तमेव विदित्वातिमृत्युमेति' इति श्रुत ॥ ॐ ह्रींकारारण्यहरिण्यै नम ॥ ह्रींकारावालवल्लरी । होकारमन्त्रवाचकतानिरूपितवा च्यतानामकसबन्धावच्छिन्नपरदेवतास्वरूपवन तदुपासना विषयफलदानसमर्था सती आवालमात्रप्ररोहद्विवृद्धवल्लयों पमीयते । तथा च तत्सबन्धितया ह्रींकार जपादिना आ बाल इव सर्वदा सरक्षणीय इति तात्पर्यार्थ परिनिष्पन्न इति यावत् ॥ ॐ ह्रींकारावालवल्लयै नम । ह्रींकारपश्चरशुकी । मन्दाधिकारिणामप्युपासनाकारण साधारणपार्वतीप्रतीकतया हाकारस्य बालकादिलालनविषय त्वधर्मपुरस्कारण पश्चरोपमा । तथा च तनत्यशुक्रीव सला पादिना मनुष्यादिचित्तरसिनी । एव तत्तददृष्टानुसारेण फ- लदानी सती तयोपमितेति द्रष्टव्यम् । ह्रीकार पसरमिव पस्य शुकी तत्सार्थक्यकारिणीत्यभिप्राय || ॐ ह्रींकारप अरशुक्यै नमः ।। टीकाराङ्गणदीपिका। अङ्गणवत् सर्वसाधारण विश्रान्ति स्थानतया होकारस्य तदुपमा तस्य दीपिका । यथाङ्गणारो