पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २४७ ह्रींकारकुण्डाग्निशिखा हीकारशशिचन्द्रिका। हींकारभास्कररुचिहींकाराम्भोदचञ्चला ।। ह्रींकारकुण्डामिशिखा । ह्रींकार एव कुण्ड वाध्यवाच कसबन्धेन परब्रह्मावच्छेदकतया आहवनीयादिसशम् , त स्थाग्निशिखा, 'उहीप्लेऽनो जुहोति'- इति प्रमाणेन 'आ हवनीये जुहोति'- इति विधिवाक्यावगतहोमाधारताया केवलाहवनीयस्यायोग्यतया सानिज्वालय होमाधारताया शायमानायामदृष्टद्वारा स्वर्गसबन्धेन स्वार्थकतया तज्ज्ञा पकवेदवाक्यस्यापि पुरुषार्थसबन्धित्वमाहवनीयनिष्ठहोमा धिकरणदीप्ताग्निज्वालास्वाधारभूतकुण्डसार्थक्यसपादकेवामा ति । तथा स्ववाचकधीजस्यापि 'मन्त्रैरुपासीत' इति वि धिगतदेवतोपामनकरणाना मन्त्राणामपि स्ववाचकतया सा र्थक्यसपादनात्तथोच्यते ॥ ॐ ह्रींकारकुण्डामिशिखायै नम ॥ हीकारशशिचन्द्रिका । ह्रींकार एव शशी चन्द्र स्वरूपाभेदभूतप्रकाशचैतन्य चन्द्रिकापदेनोपमीयते । यथा चन्द्रस्वरूपभूतामृतप्रसारभूता ज्योत्स्ना देवादिसर्वलोकाना सजीवकतयोपकरोति, तथा दृढतरभक्तिपरवशपुरुषधौरेया तस्य