पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ ललितात्रिशतीभाष्यम् । स्वात् । यद्वा मान परिमाण अणुमहद्दीघहस्त्रभेदेन प्रसि द्ध । 'म वा एष महानज आत्मा महान प्रभुर्बै पुरुष 'अणोदीयान् महता महीयान' इत्यादिवेदवाक्यैर्जलसूर्या दिवदुपाधिधर्माणामुपहित्ते गजस्तम्भमत्कुणसादौ प्रतीयमा नत्वात्, लब्ध मान परिमाण उपहिततया जगत यया सा तथा ।। ॐ लब्धमानायै नम ॥ लब्धरसा । 'रसो वैस इति श्रुते रसवत् रस्यते सबध्यत इति अत्यन्तप्रीतिविषय आनन्द स स्वस्वरूप त्वन लब्धो यया सा तथा । शृङ्गाररसो वा, अलाभरणपुष्पालकारवस्वादिति भाव । शुद्धसत्त्वप्रधान- मायोपाधिकतया, 'रखा स्निग्धा स्थिरा हृद्या आहारा सात्त्विकप्रिया ' इति गीतावचनात् नैवेद्यादौ कट्वाम्ललव णादीना देवादिविषये निषेधाश्च प्रीतिविषयत्वेन मधुररसो लब्धो ययेति वा तथा ॥ ॐ लब्धरसायै नम ॥

लब्धसपत्समुन्नति । लब्धा स्वस्वरूपतया स्वत सि द्धा या संपदः सत्यकामत्वादय सच्चिदानन्दादयो वा ताभि समुन्नति सर्वोत्कृष्टता यस्या सेति तथा । ब्रह्मण मायामानापाधिना अभिव्यज्यमाना गुणा कर्मानुभूतत्वा