पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २४३ स्तद्वत्त्व वा ॥ ॐ लपटायै नमः ॥ लकुलेश्वरी । कु पृथिव्युपलक्षितजगत् लीयते अस्मि निति कुलम् , मायोपाधिकचैतन्यम् , प्रलयाधिष्ठानम् । यत्प्रयन्त्यभिमविशन्ति' इति श्रुते । लीयमान कुल लकुल निरुपाधिकमित्यर्थ । तच्च सा ईश्वरी च सा तथा । अथवा, लकुल स्थानविशेष स्वाधिष्ठान मणिपूरक वा, तस्थेश्वरी, विष्णुरुद्रात्मिकेत्यथ , भूतसृष्टिश्रुतौ प्रथिव्या उदके तस्य तेजमि तस्य परमात्मनि लयश्रवणात् । 'सदायतना सत्य तिष्ठा ' इति । तस्येश्वरी विभूतिविशेषो वा ॥ ॐ लकुले श्वर्यै नमः ॥ लब्धमाना लब्धरसा लब्धसप त्समुन्नति । ह्रींकारिणीच हींकारी ह्रींमध्या ह्रींशिखामाण ॥ लब्धमाना । सर्वै प्राणिभि लब्ध मान अध्यस्ताहका आभमानात्मकस्तद्वदहकार प्रकीर्त्यते' इति स्मरणात् । अध्यासेनाहकाराधिष्ठानेत्यथ । अथवा, 'मान पूजायाम्' इति स्मरणात् यैयै प्राणिभि विद्यैश्वर्यकुलसौन्दर्यातिशयादि वशात् पूजा लभ्यते सुखहेतु सा तदन्तर्यामिणा पूर्वमेव लब्धा, पूजादिजन्योपकारस्य सुखादे स्वस्वरूपतया लब्ध-

>