पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ ललितात्रिशतीभाष्यम् ।

लज्जापदसमाराध्या । लज्जानाम अन्त करणधर्म जुगु साहेतु गूहनसाधनम् , उपलक्षण मनोधर्माणाम् , तस्य पदम् आश्रय'काम सकल्पा विचिकित्सा श्रद्धाश्रद्धा वृतिरधृ तिह्रीर्धीर्भीरित्येतत्सर्वं मन एव' इति श्रुत । तस्मिन समा राध्या चिन्तनीयेत्यर्थ ‘य आत्मनि तिष्ठन्नन्तरो यमयति' 'गुहाहित गह्वरेष्ठ पुराणम्' 'तमात्मस्थ येऽनुपश्यन्ति धीरा' इत्यादिश्रुतिभ्य । अथवा, लज्जापद जीवचक्रम् , तस्मिन् तदधिष्वानानन्दाभिव्यक्तिहेतुतया बहियोगक्रमेण पू जनीयेत्यर्थ ॥ ॐ लज्जापदसमाराध्यायै नमः ॥ लपटा। लमिति पृथ्वीवाचकबीजेन तदुपलक्षित जगल्ल क्ष्यते , पटशब्दन आवारकत्वधर्मवत्तया अविद्या लक्ष्यते , लम जगत पट कारणीभूता अविद्या यस्या सा तथा 'मायिन तु महेश्वरम्' 'य एको जालवान्' इति श्रुते । 'अज्ञानेनावृत ज्ञानम्' इति स्मृतेश्च । अथवा, लम्पटो नाम तन्द्री आलस्यम् , कर्मोपासनाबाहुल्येऽपि प्रतिबन्धकभूयस्त्वे शीघ्रतया परमेश्वरस्य फलदानोन्मुखताया राजादिवश्चिर- विलम्बितसेवाफलदानवैमुख्ये तद्वत्तोपचारात् , लम्पटो यस्या सा तथा । अथवा, लम्पटादीनामन्त करणधर्माणामध्यास- वशेन तदवच्छिन्ने चैतन्ये सत्त्वरजस्तम कार्याणामुपलब्धे