पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४० ललितात्रिशतीमाध्यम् । लक्ष्मणाप्रजपूजिता । अग्रे जायते इत्यग्रजौ रामभरतौ लक्ष्मणस्यापि ज्येष्ठभूतरामाचारानुकारित्वेन चतुभिरपि दा- शरथिभि पूजितेत्यर्थ । रामस्य शिवलिङ्गप्रतिष्ठाता- इति नामवत्त्वान्यथानुपपत्त्या शिवदपतिपूजकत्वेन तदितरेषा तब्द- शस्त्रीपुरुषाणा तत्सिद्धिरिति ध्वनितोऽर्थ ॥ ॐ लक्ष्मणाग्र- जपूजितायै नम ॥ लभ्येतरा । लभ्यानि लब्धव्यानि कर्मोपासनाविशेषाणा फलत्वेन साध्यानि भव्यानीत्यर्थ । तेभ्य इतरा विलक्षणा । 'तत्सत्य स आत्मा' 'नित्यो नित्याना चेतनचेतनानामेको बहूना यो विदधाति कामान् । तमात्मस्थम्' इति 'यत्साक्षाद परोक्षाम' इत्यादिभि श्रुतिभि आत्मन नित्यप्राप्तस्वरूप त्वेन प्राप्तप्राप्तव्यरूपतया मोक्षरूपत्वेन चतुर्विधक्रियाफलत्वा- भावादिति मन्तव्यम् । अथवा, इतराणि धर्मार्थकामरूपत्रि- वर्गरूपाणि फलानि लब्धव्यानि प्राप्तव्यानि यस्या शादिति सा तथा, उक्तश्रुते ॥ ॐ लभ्येतरायै नम ।। लब्धमक्तिसुलभा । भक्ति सामान्यविशेषाकारेण द्वि विधा । तन्नाद्या आर्तजिन्नास्वार्थार्थिभि थैलब्धा तत्तत्फलो द्देशेन समयविशेषे विच्छिद्य विच्छिद्य प्राप्ता तेषा सुलमा तत्तत्प्रारब्धानुसारेण फलदानोन्मुखस्वात्मरूपतया सनिहित