पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २३९ उपेक्षणीया यया सा तथा, 'सर्वस्याधिपति सर्वस्येशान ' इति श्रुते । ईश्वरस्य सर्वनियन्तृत्वेन स्वेतरानियम्यत्वादिति ज्ञातव्यम् ॥ ॐ लड़ध्येतराज्ञायै नम | लावण्यशालिनी । लावण्य मौन्दर्य परमानन्दस्वरूपतया अतिशयप्रीतिविषयत्व शालत इति तथा । सर्वावयवसाधा- रणसु दरभाववतीति वा || ॐ लावण्यशालिन्यै नमः ॥ लघुसिद्धिदा । लघुना उपायेन सिद्धिं वान्छितार्थप्राप्तिं ददासीति तथा, लघुशब्द लक्षणया लधिमासिद्धिपर । तथा च लघिमाद्यष्टैश्वर्थप्रदेति वा । अथवा, लघूना अत्य न्ताल्पज्ञानभाग्यशरीररूपचरणवतामप्यतिनिकृष्टाना तिर्य- गादीनामपि सिद्धिं मुक्तियोग्यताहेतुज्ञानादिसाधनसपत्तिं तत्कार्यमहिमातिशयोग्नेया ददातीति सा तथा ॥ ॐ लघु- सिद्धिदायै नमः ॥ लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लागलायुधा ।। लाक्षारससवर्णाभा । लाक्षारसेन लाक्षाद्रवेण समानो वर्णो यस्या मा तथाभूता शोभा कान्तिर्यस्या तथा । अतिपाटलविग्रहप्रभेत्यर्थ ॥ ॐ लाक्षारससवर्णा भायै नम ॥