पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३८ ललितात्रिशतीभाष्यम् ।

नुद्दिश्यापि मृगयादिलोलाविशेषान् पश्यति बालकादिनृत्य वा, तथा अज्ञानाम् इष्टानिष्टमिश्रोदासीनपदार्थचतुष्टयानु- भवजन्यहर्षशोकादिसभवन्मदोद्रेकशोकातिरेकहेतुकविहिता दिकरणाकरणरूपचरणायकपरिस्पन्दरूपनानाविधप्राणिकाय निकायजन्यलास्यदर्शनेन अनुद्दिश्यापि प्रयोजन सतुष्टा त सत्कर्मानुसारेण फलप्रापकेश्वरतया सर्वसमानत्वात् , नाद- त्ते कस्यचित्पाप न चैव सुकृत विभु ' इति भगवद्वचनात् । लास्य दवतादिवारवनितादिभि क्रियमाण तालगीतयुक्त नृत्य तदर्शनेन सतुष्टा । तदीयफलप्रदानोन्मुखकपारसवती त्यर्थ ॥ ॐ लास्यदर्शनसतुष्टायै नमः । लाभालाभविवर्जिता । अप्राप्तप्राप्तिर्लाभ , कृतेऽपि यत्ने तदप्राप्तिरलाभ , ताभ्या विवर्जिता, पर्याप्तकामत्वेन नित्यतृ प्तत्वात् , न मे पारित कर्तव्य त्रिषु लोकेषु किंचन' इति भगवद्वचनात् ॥ ॐ लाभालाभविवर्जितायै नम ॥ लङ्घ्येतराज्ञा । इतरेषा जीवभ्रान्तिकल्पिताना गुणमूर्त्या दीनाम् उपासनाविधिरूपा वा, कर्मविधिरूपा वा आज्ञा प्रेरणा लङ्घ्या अविषयीकृता यया सा तथा । शुद्धचैतन्यस्य विशि ष्टक्रियाद्यात्मकत्वाभावेन विभ्यविषयत्वादिति यावत् । अथ बा, किंकरीत्वाभावेन इतरेषा देवतानाम् आज्ञा प्रेरणा लङ्घ्या