पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । > तबुद्धसच्चिदानन्दस्वरूपेत्यर्थ ॥ ॐ इसमन्त्रार्थरूपिण्यै नमः॥ हानोपादाननिर्मुक्का हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ।। हानोपादाननिर्मुक्ता । अनिष्टसाधने हान परित्यागक्रि- या। इष्टसाधने उपादान स्वीकारक्रिया । परिजिहीर्षा आदित्सा वा । 'अप्राणो ह्यमना शुभ्र ': अकायम्' 'अ शरीर वाव सन्त न प्रियाप्रिये स्पृशत इति बहुश्रुते अशरीरस्य ब्रह्मणोऽन्त करणादिधर्माणामसभवात् ताभ्या निर्मुक्ता नि सङ्गेत्यर्थ , 'विमुक्तश्च विमुन्यते' इति श्रुते ॥ ॐ हानोपादाननिर्मुक्तायै नम ।। हर्षिणी । 'एष ह्येवानन्दयाति' इति श्रुते हर्षयति सतोषयतीति तथा ॥ ॐ हर्षिण्यै नमः ॥ हरिसोदरी। हरिणा कृष्णेन समान एक उदरम् उत् ईषत् अर भेदक अवच्छेदकमित्यर्थ । उबैरर कूटो वा अत्यल्पमि ध्याभूतमायोपाधिकचैतन्यावस्थाविशेषरूपा । 'अपरेयमि तस्त्वन्या प्रकृतिं विद्धि मे पराम् । जीवभूता महाबाहो ययेद धार्यते जगत्' 'देवात्मशक्तिं स्वगुणैर्निगूढाम' इत्या