पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २३३ हादसतमसापहा । हृदयावच्छिन्न हार्द , 'यो वेद नि हित गुहायाम्' इति श्रुते । अस्मिन् यत्सतमस आवारक स्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयक तदाश्रय मज्ञानम अनर्थकरम् अव्याकृताकाशमित्युच्यते, महावाक्य श्रवणजन्यधीवृतिप्रतिफलिताकारेणापहन्तीति सा तथा । नाह ब्रह्मास्मि ससारी ब्रह्म नास्ति न भाति च-इत्यज्ञानस्य सोऽह ब्रह्मास्मि सच्चिदानन्दलक्षण ---इति एकाकारवृतिबा ध्यत्वनियमेन बाधाधिष्ठानम् 'नेह नाना' इति श्रुतिसिद्ध ब्रह्मरूपेति यावत् ॥ ॐ हादसतमसापहायै नमः ॥ हल्लीसलास्यसतुष्टा । हल्लीसै चित्रदण्डै कुमारिकाभि एकतालादियुक्तगीतपूर्वक यल्लास्य नर्तन तस्मिन् सतुष्टा प्रीतिमतीत्यर्थ । 'नारीणा मण्डलीनृत्य बुधा हल्लीसक विदु' इति हारावलीकोशात् मण्डलाकारनृत्यसतुष्टेत्यर्थ । हल्लीसलास्यसतुष्टायै नमः ॥ हसमन्त्रार्थरूपिणी । हसै परमहसै उपान्यो यो मन्त्र प्रणव तस्य शास्त्रबोधिततत्त्वाथरूपिणी । वाच्यलक्ष्यार्थस्व रूपेण ज्ञायमानेत्यथ । अथवा, हसमन्त्र अजपा । हकार सकारौ शोधिततत्त्वपदार्थों, हकारस्य परोक्षवाचिन सकार- स्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्यशुद्धमु