पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २२९ > पनीये । गम्यते प्राप्यते शरणत्वेन प्रपद्यते चतुर्विधभक्तैरि ति गति । हसश्चासौ गतिश्चेति सामानाधिकरण्यसमास 'हस शुचिषत्' इति श्रुते । आहोस्वित् , हसस्य ब्रह्मवाह नस्य गतिरिव गमन यस्या सा तथा । उताहो, हसशब्देन नामैकदेशेन हसक पादकटकमुच्यते, गम्यते अनेनेत्ति गति चरणम् , हसयुक्त गती पादारविन्वे यस्या तथा । यदा, इसशब्देन नित्यानित्यसारासारजडाजडादिव स्तुविवेकसमर्था , हन्ति गच्छन्ति प्रतिप्राम प्रतिदेशम् इति हसा परिव्राजका चतुर्थाश्रमिण निष्कामा , तेषा गति गम्यते ज्ञायते साक्षास्कियत इति गति , 'सन्यासयो शुद्धसत्वा ' इति श्रुते । 'ये पूर्व देवा ऋषयश्च तद्विदु ते तन्मया अमृता वै बभूवु' इति श्रुते । जीवन्मु क्तपुरुषानुभूयमानपरमानन्दमुक्तिस्वरूपेत्यथ ॥ ॐ हस गत्यै नम ॥ हाटकाभरणोज्ज्वला | हाटकस्य सुवर्णस्य कार्याणि च तानि आभरणानि च हाटकाभरणानि तैरुज्ज्वला तथा, प्रकाशिता अलकृतेत्यर्थ । हाटकस्य सुवर्णरूपब्रह्माण्डम्य आभरणवदुज्ज्वला प्रकाशकरी सत्तास्फूर्तिकरीत्यर्थ । यद्वा, तस्मिन्नाभरणै मङ्गलसूत्रादिभि सनाथस्त्रीमण्डलस्वरूपैर गाद्यतय