पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ ललितात्रिशतीभाष्यम् । तव्या, औपाधिकचैतन्येन तथाभूतचैतन्यस्य साम्योपपत्ते ॥ ॐ कल्पवल्लीसमभुजायै नम ॥ कस्तूरीतिलकाञ्चिता । कस्तूरीतिलकेन ललाटदेशसस्था पितबिन्द्राकारमृगनाभिना अश्विता चिह्निता अलकृतेत्यर्थ ।। ॐ कस्तूरीतिलकाञ्चितायै नमः ।। हकारार्था । हकारस्य आकाशबीजस्य अर्था, अर्थ स्व रूपचैतन्यम् भाकाशविग्रहत्यर्थ , 'आकाशो ह वै नाम ना मरूपयोर्निहिता ते वदन्तरा तद्ब्रह्म' इति श्रुते ॥ ॐ हकारार्थायै नम ॥ हसगति । हन्ति गच्छतीति हस प्राण आदित्यो वा। हसस्य प्राणस्य गति गमनागमन लक्षणया तज्जाप्याजपा मन्तरूपा यस्या सा तथा, 'हकारेण बहियांति सकारेण पुनर्विशेत्' इति वचनात् । यद्वा, तदभिमानिदेवतारूपा ग्रीषोमात्मकसूर्यचन्द्रगती अहोरात्रात्मककालस्वरूपाया य सा । अथवा, इन्ति देहादेहान्तर गच्छति स्वक मवशेनेति हसा जीव , तस्य गति प्राध्यस्थान मुक्ति रित्यर्थ , ब्रह्मविदामोति परम्' 'यद्गत्वा न निवर्तन्ते' इति श्रुतिस्मृतिवचनात् । अथवा हन्ति स्वकार्यभूत जगत्प्रविशतीति हस । 'हसस्तु परमेश्वर ' इति नृसिंहता स्या