पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । २२५ > दीना शरीरावयवविशेषजन्यतया कारुण्य विग्रहो यस्या सेति समासोपपत्ति । मायोपाधिकस्य ब्रह्मण जगत्सृष्टय नुकरणहेतुभूतस्वेच्छामात्रनिमित्तककर्मानधीनसच्चिदानन्ध नीभूतात्मकभक्कानुप्राहकविप्रहवत्ता विना देवताया बुद्धा वनारोपेण सगुणोपासनमनुपपद्यमान स्यात् , तदर्थं देवताधिकरण मन्त्रप्रकाशिता देवा 'वजूहस्त यादिवत्त प्रमाणवेदवाक्यवशात् बाधकामावे विग्रहवन्त अङ्गीकर्तव्या इति प्रतिष्ठापितम् । तथा 'बहु शोभमानामुमा हैमवतीम्' इति केनोपनिषद्भाष्ये हैमानि हेमविकाराणि भूषणानि यस्मा सेति वा तथा, हिमवत अपत्य स्त्रीति च तथेति परदेवताया दिव्यविग्रहवत्त्व प्रति ष्ठापितम् । तथा च महानुभावाना स्वप्रकाशचैतन्यरूपाणा मेवभूताना सर्वात्मना सर्वोत्तमाना मूर्तित्रयदेवाना ध्याना ग्रुपकाराय तादृशमूर्तिमत्त्वम् अस्तीति न किंचिदनीश्व रवादप्रसङ्गावकाश इति भास्ता विस्तर ॥ ॐ कार ण्यविग्रहायै नम ॥ कान्ता । 'कन दीप्तौ' इति धातो नोहरत त्यर्थ । मदनगोपालविग्रहा वा । 'कदाचिदाद्या ललिता पु रूपा कृष्णविग्रहा । क्शनादविनोदेन करोति विवश जगत्' SU YII 16