पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । सा तथा ॥ न्तर्भावात् , रसशब्दस्य मधुरादौ रूढत्वात् तेषामनिवधनी यत्वऽपि अनुभवगोचरतायामिक्ष्यादिसारद्रव्यपदार्थनिष्ठत्वा- पलब्धे तत्मबन्धवशात परपरया द्रवदन्यत्तिस्यन्दनरूप- क्रियाश्रयत्वमुपचर्यते । तथा च कटाक्षस्यन्दिनी करुणा परिपाल्यताबुद्धिरूपा यस्या कटाक्षस्य- न्दिकरुणायै नम ॥ कपालिप्राणनायिका । कपालमस्य अस्तीति कपाली आन- न्दभैरव , तम्य प्राणनायिका प्राणस्येत्युपलक्षण पश्चानाम । नायिका अधिष्ठानत्वेन प्रेरका । न प्राणेन नापानेन मयों जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेसाबुपाश्रितो' इति श्रुते । तस्यापि हृदयान्तर्वर्तिपरमश्वररूपेति यावत् । प्राणवल्लभेति वा , प्रियेति भाव । ॐकपालिपाणना यिकायै नमः॥ कारुण्यविग्रहा कान्ता कान्तिधूतजपावलि । कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ कारुण्यविग्रहा। कारुण्य पूर्वोक्तकृपा, करुणस्य भाव तत् विग्रह मूर्तिर्यस्था सति तथा । कारुण्यस्या- न्त करणपरिणामबुद्धिरूपत्वेन नत्रान्तवीक्षासस्मितभाषादि नानुमीयमानत्वेऽपि साक्षात्तजन्यमनोवान्छितवरप्रदाना