पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ ललितात्रिशतीभाष्यम् । सवसौख्यपात्री । सुखिन भाव सौख्यम् , सर्वाणि च तानि प्रियमोदप्रमोदानन्दशब्दवाच्यानि । इष्टदर्शनजन्य सुख प्रिय । तल्लामजन्य मोद । तदनुभवजन्य प्रमोद । आनन्द समष्टि । जीव भोक्ता । तानि ददातीति तथा । सर्वप्रकारै स्मरणादिमि सौख्य ददातीति वा। सर्वेषा माब्रह्मस्तम्बपर्यन्ताना यथाकर्मोपासन प्रत्यक्षेण दृश्यमान ज्ञानेश्वर्यादिसहित सुख ददातीति वा तथा। एष ह्यवानन्द याति' इति श्रुते ॥ ॐ सर्वसौख्यदात्र्यै नम ॥ सर्वविमाहिनी । सर्वान् विमोहयतीति अन्यथा ग्राहय सीति वा तथा । 'अज्ञानेनावृत ज्ञान तन मुह्यन्ति जन्तव 'अनृतेन हि प्रत्यूढा ' इति श्रुतिस्मृतिभ्या अज्ञाना वरणशक्तिकार्यं मोहनादिसत्ताप्रकाशादिप्रधानाधिष्ठानत्वेन उपचारात् सर्वं माहयतीत्युच्यत । अयो दहतीतिवत् ॥ ॐ सर्वविमोहिन्यै नम ॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषणभूषिता ।। सर्वाधारा । सर्वस्याधारा 'ब्रह्म पुच्छ प्रतिष्ठा' इति श्रुते । सर्वेषा हृदयानि आधार अभिव्यक्तिस्थान उपासनाय