पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
ललितात्रिशतीभाष्यम् ।

ह्रींकारवाच्या । मायोपाधिकब्रह्मणि कल्पितधर्मेण शब्दप्रवृत्त्युपपत्तेः ह्रींपदस्य वाच्या रूढ्यैत्यर्थः ॥ ॐ ह्रींकारवाच्यायै नमः ॥
 ह्रींकारपूज्या । 'मूलमन्त्रेण पूजयेत्' इति पूजाङ्गत्वेन मूलमनोर्विनियोगः श्रूयते । मूलमनुश्च देवतायाः स्वकं नामेति वचनात् । अन्तर्मुखानामेव मन्त्रशास्त्रेषु तन्नाम्ना व्युत्पन्नत्वात् । ह्रींकार नमोऽन्तमुच्चार्य यथागुरुसंप्रदायं श्रीचक्रादौ मूलदेवता पूजनीयेत्यागमरहस्यात् ह्रींबीजेनैव पूजयितुं योग्या । अतिप्रियबीजनामत्वादित्यभिप्रायः | ॐ ह्रींकारपूज्यायै नमः ॥
 ह्रींकारपीठिका । अत्र पीठशब्दः आधारलक्षकः । वाच्यार्थो हि वाचकशब्दस्य सत्ताप्रदत्वेन आधारो भवति । मन्त्रदेवतयाेरभेदेऽपि अर्थनिष्ठमहिम्नः तद्वाचकपदेऽदृश्यमानत्वात् कल्पितभेदं संपाद्य इदमुच्यते । ह्रींकारस्य पीठिका वृत्तिस्थानं शक्त्या गोचरतया विषयीभूतेत्यर्थः ॥ ॐ ह्रींकारपीठिकायै नमः ॥
 ह्रींकारवेद्या । स्वरूपतः निर्गुणब्रह्मतया अज्ञानविषयत्वाश्रयत्वाभ्यामप्राप्तपुरुषार्थरूपतया संसारदशायां प्रतीयमानत्वात् गुरूपसदनश्रवणादिरूपविध्यप्रामाण्यनिरासाय लक्ष- DU VII 14