पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
ललितात्रिशतीभाष्यम् ।

तथा ॥ ॐ ह्रींविभूषणायै नमः ॥
 ह्रींशीला । ह्रीमित्यनेन तद्वाच्यार्था ब्रह्मविष्णुरुद्रा लक्ष्यन्ते, तेषां शीलं स्वभावः पारमार्थिकं रूपं सच्चिदानन्दात्मकता यस्याः सा तथा, तन्निष्ठधर्मा सत्त्वरजस्तमा गुणादयो वा यस्या सा तथा, 'शीलं स्वभावे धर्मे च' इति वचनात् ॥ ॐ ह्रींशीलायै नमः ॥
 ह्रींपदाराध्या । ह्रीपदेन एकाक्षरबीजमन्त्रेण आराधितुं योग्या तथा । 'ह्रींकारेणैव संसिद्धो भुक्तिं मुक्तिं च विन्दति' इति भुवनेश्वरीकल्पवचनादिति यावत् ॥ ॐ ह्रींपदाराध्यायै नमः ॥
 ह्रींगर्भा । ह्रींशब्दार्था सगुणमूर्तयस्तिस्र गर्भे स्वस्वरूपे सशक्तिका अविनाभावसबन्धेन यस्याः सा तथा, 'मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति वचनात् ॥ ॐ ह्रींगर्भायै नमः ॥
 ह्रींपदाभिधा । ह्रींकारः अभिधा नाम यस्याः सा तथा । समष्टिरूपायाः समष्टिशब्दवाच्यत्वनियमादित्यभिसन्धिः ॥ ॐ ह्रींपदाभिधायै नमः ॥

ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका ।
ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९ ॥