पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
ललितात्रिशतीमाध्यम् ।

सेति वा तथा ॥ ॐ ह्रींकारलक्षणायै नमः ॥

ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८ ॥

ह्रींकारजपसुप्रीता । ह्रींकारस्य जपः ह्रींकारजपः, तेन सुप्रीता ॥ ॐ ह्रींकारजपसुप्रीतायै नमः ॥
 ह्रींमती । वाचकत्वेन लक्षकत्वेन वा लक्ष्यपदार्थरूपेण वा वाच्यवाचकयोरभेदेन वा अस्या अस्तीति ह्रींमती ॥ ॐ ह्रींमत्यै नमः ॥
 ह्रींविभूषणा । केवलजडमायावाचकः ह्रींकारः, तथा हि-हकारः श्वेतवाचकः, रेफः रोहितार्थकः, ईकारः नीलार्थकः, तथा च विशिष्टस्य शुक्लरक्तनीलवत्पदार्थवाचकतया सत्त्वरजस्तमोगुणवत्प्रकृतिवाचकत्वेन परिच्छिन्नानृत जडदुःखस्वरूपवाच्यार्थकतया प्रकाशराहित्येन अनुपादेयताया सत्या तदवच्छिन्नस्वप्रकाशचैतन्याकारतया विशिष्टार्थस्य आपादमस्तकभूषिततरुणीवदानन्दस्वरूपतया तद्वाचकह्रींपदस्य अष्टैश्वर्यसिद्धिप्रदानशक्त्याधायकतया शोभायमान भूषणवत्, 'कुण्डली पुरुष' इत्यत्र कुण्डलस्योपलक्षणतया इतरसजातीयादिव्यावर्तकत्वम्, तथास्यापि बीजस्येतरव्यावृत्तवाच्यार्थगोचरप्रमाजनकत्वेन भूषणवत् यस्याः सा