पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
श्रीराममुजङ्गप्रयातस्तोत्रम् ।


प्रसीद प्रसीद प्रचण्डप्रताप
 प्रसीद प्रसीद प्रचण्डारिकाल ।
प्रसीद प्रसीद प्रपन्नानुकम्पिन्
 प्रसीद प्रसीद प्रभो रामचन्द्र ॥ २८ ॥

भुजङ्गप्रयातं परं वेदसारं
 मुदा रामचन्द्रस्य भक्त्या च नित्यम् ।
पठन्सन्ततं चिन्तयन्स्वान्तरङ्गे
 स एव स्वयं रामचन्द्रः स धन्यः ॥ २९ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
श्रीरामभुजङ्गप्रयातस्तोत्रम्
सम्पूर्णम् ॥