पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
ललितात्रिशतीमाष्यम् ।

'पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामा' इति श्रुतेः ॥ ॐ लब्धकामायै नमः ॥
 लतातनुः । लता इव, लताः कल्पादिवल्ल्यः सकलपुरुषार्थप्रदत्वेन जगति प्रसिद्धाः, ता इव सुकुमारत्वाद्याश्रया तनुः मूर्तिः यस्याः सा तथा ॥ ॐ लतातनवे नमः ॥

ललामराजदलिका लम्बिमुक्तालनाश्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाट्या लयवर्जिता ॥ १६ ॥

 ललामराजदलिका । ललाम्ना कस्तूरीतिलकेन कस्तूरीपत्रेण वा राजत् विभ्राजत् परमशाेभि अलिकं ललाटं यस्याः सा तथा ॥ ॐ ललामराजदलिकायै नमः ॥
 लम्बिमुक्तालताञ्चिता । लम्बिन्यः लम्बमानाः अधः प्रसृताः मुक्तालताः हाराः मुक्ताफलानि वा यस्याः सा तथा । नवरत्नखचितसुवर्णमुक्तागुच्छैः सर्वाङ्गेषु प्रलम्बमानैः ललाटपर्यन्तं लम्बमानकिरीटप्रथमभागललाटपट्टनासाग्रताटङ्काधःकर्णदेशकण्ठप्रदेशहस्तचतुष्टयाङ्गदसमानप्रदेशकूर्पासपरितःपदकाग्रदेशकटिनिबद्धकाञ्च्यादिषु परिलम्बमानैरित्यर्थः ॥ ॐ लम्बिमुक्तालताञ्चितायै नमः ॥