पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
ललितात्रिशतीभाष्यम् ।

रेण' इति श्रुतेः ॥ ॐ लक्ष्यार्थायै नमः ॥
 लक्षणागम्या । लक्षणानाम शक्यार्थे वाचकस्य पदस्य अन्वयाद्यनुपपत्त्या तत्संबन्धिपदार्थान्तरज्ञानहेतुः शक्यसंबन्धादिपदजन्यपदार्थान्तरज्ञानहेतुः शब्दवृत्तिरित्युच्यते, तस्या वाच्यवाचकतत्संबन्धादिभेदज्ञानपूर्विकायाः परिच्छिन्नसावयवपदार्थसंबन्धज्ञानहेतोः केवलचिन्मात्रे निरुपाधिके वस्तुनि षष्ठीजात्यादीनां लक्ष्यतावच्छेदकधर्माणामभावे प्रवृत्त्ययोगात् तया अगम्या, गन्तुं ज्ञातुं योग्यं गम्यं तन्न भवतीत्यगम्या । वेदान्तमते जहदजहल्लक्षणया विशषणमात्रपरित्यागस्य अन्याेन्यतादात्म्यानुपपत्या बोधिसत्वात् तदर्धं सा अवश्यमङ्गीकर्तव्या । विशेष्यस्य ज्ञानस्वरूपत्वेन नित्यतया लक्षणाजन्यत्वात् तदर्थं सा न अपेक्ष्यत इति भावः तथा च प्रकृताया देवतायाः शुद्धचैतन्यमात्रस्वरूपतया स्वयं प्रकाशत्वेन लक्षणागोचरत्वात् लक्षणागम्येति नाम युक्तमिति भावः ॥ ॐ लक्षणागम्यायै नमः ॥
 लब्धकामा । लब्धाः काम्यन्त इति कामाः ऐहिकामुष्मिकसुखसाधनानि, लक्षणया तत्तज्जन्यसुखानि वा तथाभूताः कामाः यया सा तथा, पर्याप्तकामेत्यर्थः,