पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
ललितात्रिशतीभाष्यम् ।

यस्याः सा तथा । अथवा, सामुद्रिकशास्त्रोक्तदिव्यलक्षणैरुज्ज्वलानि सम्पूर्णानि दिव्यानि यानि अङ्गान्यवयवाः शिरःपाण्यादयः अस्याः सन्तीति वा तथा ॥ ॐ लक्षणोज्ज्वलदिव्यायै नमः ॥
 लक्षकोट्यण्डनायिका । लक्षानि च कोट्यश्च असंख्यातापरिमितानीत्यर्थः, संसारस्यानादित्वेन भूतभविष्यदादिभेदेन बहुसंख्यावत्वमण्डानाम्, तानि च तान्यण्डानि च हिरण्यगर्भविराड्रूपाणि समष्टिव्यष्ट्यात्मना विश्वतैजसाेपाधिभूतानि, तेषाम् अधिष्ठानबिम्बचैतन्यात्मना नयति स्वसत्तामापादयतीति नायिका ॥ ॐ लक्षकोट्यण्डनायिकायै नमः ॥
 लक्ष्यार्था । लक्षणया शोधनया जहदजहल्लक्षणया वा प्रतिपाद्यते वेदान्तमहावाक्यानां योऽर्थः चित्स्वरूपा । अथवा योगशास्त्रप्रसिद्धबहिरूर्ध्वाधःप्रदेशविशेषरूपभूमिकासु स्वस्वमनोवाञ्छाविषयविशेषणत्वेन निर्गुणत्वेन वा मनाेविलयरूपहठराजयोगादिसाधनपरिपाकवशेन साक्षात्कृतं चैतन्य लक्ष्य इत्युच्यते, अर्थ्यते याच्यते गुरुं प्रति इति अर्थः, लक्ष्यो योऽर्थः चित्स्वरूपपरमानन्दरूपः सोऽपि सैवेति तथा, 'ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्त-'