पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
ललितात्रिशतीभाष्यम् ।

ललन्तिकालसत्फाला । ललन्तिकया परितः मुक्ताफलखचितनवरत्नमध्यया ललाटमध्यदेशभूषया, इदमुपलक्षणं ललाटपट्टादीनाम्, लसत् फालं यस्याः सा तथा ॥ ॐ ललन्तिकालसत्फलायै नमः ।
 ललाटनयनार्चिता । ललाटे नयनं येषां ते, अत्र ललाटशब्देन भ्रूमध्यं लक्ष्यते, नयनशब्देन ज्ञानमपि, चोर्ध्वदृष्टिभिः खेचरीमुद्रया विलीनचित्तैः असिवरुणयोर्मध्यदेशाभिधानाविमुक्तकृतपरमेश्वराराधनपरपुरुषप्राप्यत्वाभिधायकात्रिप्रश्नोत्तरजाबालश्रुतिगत-याज्ञवल्क्योत्तरवाक्यनिर्दिष्टभूमिकाजयसिद्धिमत्पुरुषैः अर्चिता साक्षात्कृतेत्यर्थः । अथवा, तृतीयनेत्रवता शिवेन तत्स्वरूपरुद्रैर्वा पूजितेत्यर्थः । ॐ ललाटनयनार्चितायै नमः ॥

लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्थी लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥

 लक्षणोज्ज्वलदिव्याङ्गी । दीप्यसे प्रकाशत इति दिव्यं लक्षणैः स्वरूपतटस्थनामकैः उज्ज्वलं शोभितं शुद्धम् अङ्गं स्वरूपं विग्रहो वा । घृताकाठिन्यन्यायेन 'तदात्मानं स्वयमकुरुत' इति श्रुतेः सच्चिदानन्दघनीभूतजीवात्मको विग्रहो