पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
ललितात्रिशतीभाष्यम् ।

लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥

 लाकिनी । क सुखम्, 'कं ब्रह्म इति श्रुतेः, तन्न भवतीत्यकं ब्रह्माभिन्नतया प्रतीयमानं दुःखात्मकं जगत् अकम्, लीयत इति लम्, उपलक्षणमुत्पत्त्यादेः लमकभस्यास्तीति लाकिनी, अनृतजडदुःखरूपजगत्कारणतद्व्यावृत्तस्वरूपब्रह्मभूता इत्यर्थः ॥ ॐ लाकिन्यै नमः ॥
 ललनारूपा । रूप्यते ज्ञाप्यते अनेनेति रूपं ज्ञापकं तद्व्याप्यलिङ्गं चिह्नमिति वा, ललनानां स्त्रीणां रूपं वेषः आभरणाद्यलङ्कारो वा आकृतिर्वा यस्याः सा तथा, ललनाः स्त्रियः रूपाणि भूतयः यस्याः सा तथा, 'लिङ्गाङ्कितमिदं पश्य जगदेतद्भगाङ्कितम्' इति पुराणवचनात् ॥ ॐ ललनारूपायै नमः ॥
 लसद्दाडिमपाटला । दाडिमशब्देन विकसिते तत्पुष्पं लक्ष्यते, लसत् सद्यो विकसनप्रकाशं च तद्दाडिमं च, इदम् उपलक्षणं बन्धूकादीनाम्, तद्वत्पाटला श्वेतमिश्ररक्तवर्णप्रधानमूर्तिमतीत्यर्थः, 'श्वेतरक्तं तु पाटलम्' इति वचनात् । ॐ लसद्दाडिमपाटलायै नमः ॥