पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
ललितात्रिशतीभाष्यम् ।

ईहाविरहिता । अप्राप्तप्राप्तिं प्रति इच्छा ईहा, विरहिता, आप्तकामत्वात् तद्विरहितेत्यर्थः ॥ ॐ ईहाविरहितायै नमः ॥
 ईशशक्तिः । ईशस्य शक्तिः सर्वज्ञत्वादिस्वरूपसामर्थ्यं यस्याः सा तथा, 'देवात्मशक्तिम्' इति श्रुतेः ॥ ॐ ईशशक्तये नमः ॥
 इषत्स्मितानना | इषत् स्मितं मन्दहासः यस्य तत् तथा, तादृगाननं यस्याः सा तथा, पर्याप्तकामत्वेन सर्वदा प्रसन्नमुखीत्यर्थः । दुःखास्पर्शिपरमानन्दरूपतया वा तथा ॥ ॐ ईषत्स्मिताननायै नमः ॥
 लकाररूपा । रूप्यत इति रूपं मन्त्रस्य चतुर्थवर्णत्वेन ज्ञापकं यस्याः सा तथा ॥ ॐ लकाररूपायै नमः ॥
 ललिता । ललितं त्रिषु सुन्दरम्' इति वचनात् अत्यन्तसौन्दर्यवतीत्यर्थः । अनुपमसौन्दर्या वा ॥ ॐ ललितायै नमः ॥
 लक्ष्मीवाणीनिषेविता । लक्ष्मीः रमा सर्वैश्वर्यशक्तिः, वाणी सरस्वती सर्वज्ञानशक्तिः, ताभ्यां नितरां अकृत्रिमप्रेम्णा अनन्यभूता सती सेविता । सेवा नाम उन्मीलिताज्ञाप्रतीक्षा, तद्वत्त्वादित्यर्थः ॥ ॐ लक्ष्मीवाणीनिषेवितायै नमः ॥