पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
ललितात्रिशतीभाष्यम् ।

शरीरवत्स्वरूपलक्षणं यस्याः सा तथा । 'सच्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति स्मृतेः । अथवा, ईश्वरस्यार्धाङ्गं वामभागः शरीरं मूर्तिर्यस्याः सा । अथवा, ईश्वरस्य हकारस्य अर्धाङ्गं शक्तिबीजं शरीरं मन्त्रात्मिका मूर्तिर्यस्याः सा तथा । ॐ ईश्वरार्धाङ्गशरीरायै नमः ॥
 ईशाधिदेवता । ईशस्येत्युपलक्षणं जीवस्यापि, ईशस्य तत्त्वंपदवाच्यार्थस्य मायोपाधिकस्य विशिष्टस्य अधि उपरि विशेषणद्वयस्य परित्यागे देवता द्योतमाना कूटस्थचिन्मात्रशोधिततत्त्वपदार्थरूपेत्यर्थः । अथवा, ईशः कामेश्वरः अधिदेवता पूज्यः यस्याः सा तथा । परमपतिव्रतेत्यर्थः ॥ ॐ ईशाधिदेवतायै नमः॥

ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥

 ईश्वरप्रेरणकरी । ईश्वरस्य बिम्बचैतन्यस्य स्वरूपा सती जगत्सर्जनादिकार्यप्रेरयित्री प्रेरणकरी आज्ञापकेत्यर्थः । इच्छानानक्रियाशक्त्यावरणविक्षेपशक्तिप्रतिफलितचित्स्वरूपा भाविकार्यानुकूलप्रारब्धाध्यक्षपरमेश्वरेक्षणनामधेयप्रकाशात्मिका भवतीति भावः । ईश्वरप्रेरणं तदाज्ञामनुल्लङ्घनेन क-