पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्रीरामभुजङ्गप्रयातस्तोत्रम् ।


अवीरासनस्थैरचिन्मुद्रिकाढ्यै-
 रभक्ताञ्जनेयादितत्त्वप्रकाशैः ।
अमन्दारमूलैरमन्दारमालै
 ररामाभिधेयैरलं दैवतैर्नः ॥ २४ ॥

असिन्धुप्रकोपैरवन्द्यप्रतापै-
 रबन्धुप्रयाणैरमन्दस्मिताढ्यैः ।
अदण्डप्रवासैरखण्डप्रबोधै
 ररामाभिधेयैरलं दैवतैर्नः ॥ २५ ॥

हरे राम सीतापते रावणारे
 खरारे मुरारेऽसुरारे परेति ।
लपन्तं नयन्तं सदाकालमेव
 समालोकयालोकयाशेषबन्धो ॥ २६ ॥

नमस्ते सुमित्रासुपुत्राभिवन्द्य
 नमस्ते सदा कैकयीनन्दनेड्य ।
नमस्ते सदा वानराधीशवन्द्य
 नमस्ते नमस्ते सदा रामचन्द्र ॥ २७ ॥