पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
ललितात्रिशतीभाष्यम् ।

फलदातृत्वमचेतनत्वान्नोपपद्यते । तादृशानां कस्मिन्नप्यर्थे सामर्थ्यादर्शनात् । चेतनाधिष्ठितानां तु कर्मणां भूत्यकृतपराक्रमादितुष्टराजवत्तदाराधितपरमेश्वरः कर्माध्यक्षः, इति श्रुत्या सर्वज्ञस्य तत्तदधिकारिकृतपुण्यापुण्यानुरूपतया फलप्रदाने समर्थ्यस्य सत्त्वकल्पने तदन्यस्य चेतनस्य जीवादेस्तत्र सामर्थ्यविरहात् स एव तत्तदनुगुणविषयेच्छोत्पादनेन तत्साधनानुष्ठापयिता सन् तत्फलकामनां पूरयतीत्यनीश्वरमीमांसकमतनिरासो द्रष्टव्यः । अथवा, ईप्सिता जिज्ञासिता, तथा च स्वस्वरूपप्रतिपादकवेदान्तश्रवणमनननिदिध्यासनविषयीकृता सती अर्थं प्रार्थ्यमानं सर्वाभ्यर्हितमोक्षरूपं पुरुषार्थं प्रददातीति तथा ॥ ॐ ईप्सितार्थप्रदायिन्यै नमः ॥

ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥

 इदृगित्यविनिर्देश्या । ईदृक् एतल्लक्षणलक्षित एतादृशपरिमाण एवंस्वरूपः एतादृशधर्मवानिति प्रत्यक्षसिद्धार्थो विनिर्देष्टुं शक्यते । 'यश्चक्षुषा न पश्यति' इत्यादिश्रुत्या सर्वेन्द्रियगोचरत्वनिराकरणात् विनिर्देश्या न भवति । औपनिषदानां मते तु उपनिषदां वेदैकदेशत्वेन इतरप्रमाणा