पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
ललितात्रिशतीभाष्यम् ।

त्वं तत्प्रददातीति । अथवा, एकातपत्रसाम्राज्यं चक्रवर्तित्वं तत्प्रददातीति वा ॥ ॐ एकातपत्रसाम्राज्यप्रदायै नमः ॥
 एकान्तपूजिता । एकस्य अद्वितीयस्य शोधितत्वंपदार्थस्य अन्ते उपाधौ हृदि परिच्छेदकत्वात् पूजिता अहमित्यपरोक्षीकृता, 'यत्साक्षादपरोक्षाद्ब्रह्म' इति श्रुतेः । एकस्य ब्रह्मणः अन्ते उपपूजिता षद् गत्यवसानार्थयोरिति धातुपाठात् उपनिषद्ब्रह्ममात्रतया पर्यवस्यतीत्यर्थः । एकान्तपूजितेति नाम्नोपनिषदित्यर्थः । अथवा, एकान्ते 'गुहानिवाताश्रयेण प्रयोजयेत्' इति श्रुतेः एकान्तस्थले ध्यानादिना योगिभिर्विषयीकृतेत्यर्थः । अथवा, कामेश्वरेण एकान्ते स्त्रीलिङ्गे पूजिता । संप्रदायप्रवृत्यर्थमादौ ईश्वरेण बहिर्यागक्रमेण आदिमसाधनेन सर्गाद्यकाले पूजादिना संतोषितत्वात् भूतार्थव्यपदेशः । एकान्ते सर्वप्रविलापनसमये पूजिता ध्यानादिना संपादिता साक्षत्कृतेत्यर्थः । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेरिति वा ॥ ॐ एकान्तपूजितायै नमः ॥
 एधमानप्रभा । एधमाना विवर्धमाना सर्वातिशायिनी प्रभा कान्तिर्यस्याः सा, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । ॐ एधमानप्रभायै नमः ॥