पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
ललितात्रिशतीभाष्यम् ।

रणविज्ञानम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानरूपम् । प्रारब्धवशात्तदा चित्तं तदध्यस्तं सर्वजगद्रष्टुमिच्छति यदि, तदानीं चैतन्यप्रकाशेनैव प्रकाशितं जगत्स्वाप्नपदार्थवदशेषं भासते । इदं च भरद्वाजादीनामस्तीति पुराणादिप्रमाणवेद्यमस्माकम् । तथा च तस्यां भूमिकायां निरुद्धसामर्थ्यं सदन्तःकरणं साकारस्वरूपं निर्वासनं यदा नश्यति, तदा प्रशान्तवाहिता भवति । वहः प्रवाहः सन्ततवृत्तिः धारा अस्य अस्तीति वाही, वाहिनो भावः वाहिता प्रशान्ता च सा वाहिता च प्रशान्तवाहिता । अथवा, प्रशान्तः वाहः अस्य अस्तीति प्रशान्तवाही । प्रशान्तवाहिनो भावः प्रशान्तवाहिता, 'मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । असप्रज्ञातनामेति समाधिर्योगिनां प्रियः' इति वचनात्, प्रशान्तमनसं ह्येनम्' इति भगवद्वचनात्, 'पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्' इति श्रुत्या उक्तलक्षणसाधनपरिपाकवशाद्भवति । तैर्निर्ध्याता, ध्यानस्य निर्गतत्वात् । भेदास्फूर्तौ ध्यानविषयो न भवति ध्यातुः स्वरूपमेव प्रकाशते, 'ब्रह्म वेद ब्रह्मैव भवति' इति श्रुतेः । निर्ध्याता इति पाठे नितरां