पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
ललितात्रिशतीभाष्यम् ।

ब्रह्मरूपलक्षणवतीत्यर्थः । 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इति श्रुते 'आनन्दादयः प्रधानस्य' इति न्यायाच्च दीप्तिस्वरूपप्रकाशात्मकपरमानन्दस्वरूपस्य जीवन्मुक्त्यवस्थायां परमात्मज्ञानवत् पुरुषानुभवरूपप्रत्यक्षप्रमाणगोचरत्वमस्या इति वा तथा । अथवा, एकेषाम् आनुभाविकानां योगिनामानन्दसाक्षात्काररूपा आकृतिः निरावरणप्रकाशरूपा यस्याः सा तथा । अथवा, आनन्दः शिवा, चित् परमेश्वरः, एके मूर्तिभेदरहिते आनन्दचितो आकृतिर्यस्याः सा तथा ॥ ॐ एकानन्दचिदाकृतये नमः ॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहिताहता ॥ ६ ॥

 एवमित्यागमाबोध्या । ननु आनन्दशब्दस्य लक्षणया आनन्दमयो वाच्यः । “य एको जालवानीशत ईशनीभिः इति श्रुत्युक्तैकत्वमपि जीवे सिध्यति । तथा च एकश्चासावानन्दश्च तस्य चित् अधिष्ठानप्रकाशकचैतन्यमाकृतिः यस्याः सेति विग्रहः संभवति । 'ब्रह्म पुच्छ प्रतिष्ठा' इति तत्प्रकाशकचैतन्यस्य पुच्छशब्देन परामर्शात् । एवं च सति प्रकाशकनित्यत्वस्य प्रकाश्यनित्यत्वापेक्षत्वात् । ‘सत्यं ज्ञानम-