पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
ललितात्रिशतीभाष्यम् ।


तोपाधिमत्तया तत्त्वंपदलक्ष्यार्थस्यैकत्वात् । तस्मात् तत्त्वंपदलक्ष्यार्थे सर्वेऽपि गुणा वर्णियितुं संभवन्तीति हयग्रीवेण अस्यां त्रिशत्या बहवः चकाराः उपात्ताः । तेन वयं सर्वेषां सर्वत्र न पार्थक्येन प्रयोजनान्तरं पश्यामः ॥ ॐ एकाक्षर्यै नमः ॥
 एकानेकाक्षराकृतिः । एकम् ईश्वरप्रतिबिम्बोपाधितया शुद्धसत्त्वप्रधानम् अक्षरमज्ञानम् । अनेकानि मलिनसत्त्वप्रधानतया जीवोपाधिभूतान्यक्षराणि अज्ञानानि, 'माया चाविद्या च स्वयमेव भवति' इति श्रुतेः । एकं चानेकानि च एकानेकानि तानि च अक्षराणि च तानि तथा 'माया तु प्रकृतिम्' इति श्रुतेः । तेष्वाकृतयः प्रतिबिम्बान्यवन्छिन्नानि वा चैतन्यानि घटस्थोदकावच्छिन्नप्रतिबिम्बिताकाशवद्यस्याः सा तथा । अथवा एकानि च प्रणवाद्यानि अनेकानि च अकारादिक्षकारान्तानि अक्षराणि वर्णाः आकृतिः स्वरूपं यस्याः सा, मातृकास्वरूपत्वेन वा । 'अकारादिक्षकारान्ता मातृकेत्यभिधीयते' इति वचनात् । अथवा एच कश्च एकारककारौ तौ चेतराण्यनेकाक्षराणि च सर्वं मिलित्वा पञ्चदशवर्णात्मिका मूलविद्या आकृतिः स्वरूपं यस्याः सा । साक्षितया एकीभूता अनेकाक्षरेषु अनेकाज्ञानेषु आकृतिः स्वरूपं SU 111 12