पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
ललितात्रिशतीभाष्यम् ।

माया । तत्प्रतिबिम्बनिष्ठसर्वज्ञत्वाद्याधायकविशेषणत्वेन अस्या अस्तीति एकाक्षरी । एकम् अक्षरं सर्वप्रकृतित्वात्परापरब्रह्मप्रतीकतया तदुपासनया तदुभयप्राप्तिसाधनत्वेन शब्दब्रह्मरूपलक्षितलक्षकशब्दः प्रणवः अस्या अस्तीति वा । एकः अखण्डैकचैतन्यरूपः अक्षरः अनश्वरः अविनाशी परमेश्वरः अर्धशरीरत्वेन अस्यामस्तीति वा । एकान्यक्षराणि मायाबीजादीनि सदुपासनाप्रतीकत्वेन अस्याः सन्तीति वा । 'अथ परा यया तदक्षरमधिगम्यते' इति श्रुतेः अखण्डाकारवृत्तिप्रतिफलनयोग्यचैतन्यरूपतया तद्वृत्तिव्याप्तिमात्रेण अक्षरपदलक्ष्यचैतन्यं विषयतासबन्धेन अस्या अस्तीति एकाक्षरी । चकारः निर्गुणब्रह्मणोऽपि सगुणब्रह्मविशेषणसद्भावसमुच्चयपरः सर्वत्रापि द्रष्टव्यः । 'सच्चिन्मयः शिवः साक्षात्तस्यानन्दमयी शिवा' इति वचनेन, 'स्त्रीरूपा चिन्तयेद्देवीं पुंरूपामथवेश्वरीम् । अथवा निष्कलं ध्यायेत्सञ्चिदानन्दविग्रहाम्' इति स्मृत्या च, त्वं स्त्री त्वं पुमान्' इति श्वेताश्वतरोपनिषदि उपाधिकृतनानारूपसंभवोक्तेश्च । अत एव 'सेयं देवतैक्षत' इत्यादौ तत्सत्यं स आत्मा' इत्यन्ते च श्रुतौ स्त्रीलिङ्गान्तदेवतादिपदानां तत्सत्यमिति नपुंसकान्तस्य स आत्मेति पुंलिङ्गात्मशब्दस्य एकार्थत्वम् अविवक्षि-