पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
ललितात्रिशतीभाष्यम् ।


'सर्वे वेदा यत्रैकं भवन्ति' इति श्रुत्या वेदस्यात्माभेदेन स्वप्रकाशकतया अर्थप्रकाशनद्वारा प्रामाण्यविधीनामपि वेदैकदेशतया प्रेरणरूपत्वात् सदधिष्ठानचैतन्यात्मना कारयतीति तथा, 'एष ह्येव साधु कर्म कारयति' इति श्रुतेः ॥ ॐ कारयित्र्यै नमः ॥
 कर्मफलप्रदा । कृतानां कर्मणां कालान्तरभाविफलप्रदाने अदृष्टं कारणमित्यनीश्वरमीमांसकादिमतम्, तन्न । जडानां सूक्ष्माणामदृष्टानां चेतनधर्मकर्मफलप्रदानसामर्थ्यायोगात् कृतानां कर्मणां फलावश्यंभावे 'कर्माध्यक्षः' इति श्रुतेः, 'मयैव विहितान्हितान्' इति स्मृतेश्च, 'फलमत उपपत्तेः ' इति न्यायाच्च परदेवता कर्मफलप्रदा ॥ ॐ कर्मफलप्रदायैः नमः ॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥

 एकरूपा । एकारः रूपं मन्त्रद्वितीयावयवसंज्ञापकं यस्याः सा तथा ॥ ॐ एकाररूपायै नमः ॥
 एकाक्षरी । एकं मुख्यम् ईश्वरोपाधित्वेन । न क्षरति आत्मज्ञानेन विनामुक्तेः न नश्यतीति अक्षरं कूटस्थशब्दवाच्यं