पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
ललितात्रिशतीभाष्यम।


पासृजत् तदण्डमभवद्धैमम्' इति वचनात् कंजानि अनेककोटिब्रह्माण्डानि लोचनयोः लोचनकृतवीक्षणात् यस्याः सा तथा, 'सेयं देवतैक्षत' इति श्रुतेः ॥ ॐ कंजलोचनायै नमः ॥
 कम्रविग्रहा । कम्रः अतिमनोज्ञः, गाम्भीर्यधैर्यमाधुर्यादिबहुगुणोदितत्वात्, विग्रहः मूर्तिः यस्याः सा तथा, 'आनन्दरूपममृतं यद्विभाति' इति श्रुतेः । आनन्दस्वरूपत्वाद्वा कम्रविग्रहा, ललितारूपेत्यर्थ ॥ ॐ कम्रविग्रहायै नमः ॥
 कर्मादिसाक्षिणी । कर्म आदिर्येषां तानि कर्मादीनि उपासनायोगश्रवणमनननिदिध्यासनानि । तेषां साक्षिणी असंबन्धी द्रष्ट्री, 'साक्षी चेता' इति श्रुतेः । अथवा कर्मादयः साक्षिभूताः जीवनिष्ठाः तदनाश्रयतया आत्मदर्शनसाधनानि सृज्यमानजगदुपादानभूतानि यस्याः सा तथा ॥ ॐ कर्मादिसाक्षिण्यै नमः ॥
 कारयित्री कारयितृत्वं नाम कुर्वियाज्ञापयितृत्वं यमानकार्यगोचरकृत्युत्पत्तिहेतुकर्मोद्बोधकस्वरूपलिङ्लोट्तव्य प्रत्ययानां धर्मः विधिनिष्ठभावनेत्युच्यते । तेषां शब्दात्मकतया जडानां तथात्वासभवात्तदधिष्ठानचैतन्यरूपतया