पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
ललितात्रिशतीभाष्यम् ।

यस्याः सा तथा, सुमेरुमध्यशृङ्गस्थेत्यर्थः ॥ ॐ कल्याणशैलनिलयायै नमः ॥

 कमनीया । परमानन्दस्वरूपत्वेन परमप्रेमास्पदा, कोह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' इति श्रुतेः । सुखस्य मनोहरत्वेन सर्वेप्साविषयत्ववत् मायावृतानां सुखप्रापकत्वेन स्वस्वेष्टदेवतासु प्रीत्यतिशयेन तत्पूजादौ प्रवर्ततां तत्फलदानेन मनोहरत्वाद्वा कमनीया । ज्ञानिनामानन्दघनीभावात्मकसुन्दरमूर्तिमत्तया वा कमनीया ॥ ॐ कमनीयायै नमः ॥

 कलावती । कलाः शिरःपाण्याद्यवयवाः, चतुःषष्टिकलाः विद्यारूपा वा, चन्द्रकला वा, भक्तध्यानाय अस्याः सन्तीति कलावती ॥ ॐ कलावत्यै नमः ॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥

 कमलाक्षी । कमले इव अक्षिणी यस्याः सा तथा कमलायाः लक्ष्म्याः अक्षिशब्देन तन्निमित्तकं ज्ञानं लक्ष्न्यते विषयतासंबन्धेन तद्वतीति वा । कमलायाः ऐहिकामुष्मिकश्रियः हेतुभूते अक्षिणी यस्याः सा- इति स्वकीयेक्षणमा-