पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
ललितात्रिशतीभाष्यम् ।


रश्चर्यापरायणानां शिवभावमेव यच्छतीति वा तद्रूपेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति श्रुतेः । दहराकाशस्य सुखस्वरूपत्वेन परमप्रेमास्पदतया अभिलाषविषयत्ववत् ककारोऽप्यतिप्रीतिविषयमूलमन्त्रादिमाक्षरतया अभ्यर्हितत्वाद्वा तद्रूपेत्यर्थः ॥ ॐ ककाररूपायै नमः ॥

 कल्याणी | कल्याणानि सुखानि । युवसार्वभौमानन्दादारभ्य ब्रह्मानन्दपर्यन्तं तैत्तिरीयकादौ प्रतिपादितानि । तत्तदुपाधिभेदेष्ववच्छिन्नस्वरूपतया तानि कल्याणशब्दवाच्यानि, 'एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः । समष्टिव्यष्टिवत्त्वमुपहितस्वरूपेण सम्भवतीति मतुप्समासोपपत्तिः । तथा च राहोः शिर इतिवत् समासान्तर्गतषष्ठ्यर्थभेदस्याविवक्षिततया आनन्दैकविग्रहवतीत्यर्थः, 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्युक्तब्रह्मस्वरूपलक्षणवतीत्यर्थः ॥ ॐ कल्याण्यै नमः ॥

 कल्याणगुणशालिनी । कल्याणाः सुखकर्तारः ये गुणाः सत्यकामसत्यसंकल्पसर्वाधिपत्यसर्वेशानत्ववामनीत्वसंयद्वामत्वादयः, ते अस्याः शालयन्त इति, तथा एनां शोभयन्तीति वा, तैः शाल्यत इति वा कल्याणगुणशालिनी । तथा च कल्याणाश्च ते गुणाश्च कल्याणगुणाः शालयन्त्येनामिति