पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
ललितात्रिशतीभाष्यम् ।


तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच-
इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८ ॥

बहुकालं सुभक्तिमहिम्ना गुरुपादाम्बुजमवलम्ब्य स्थिताय कुम्भयोनिमुनये शिवदम्पतिकृतनामशतत्रयोक्त्या प्रेरितो हय- ग्रीव उवाच-

ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥

ककाररूपेति । ककारः कवर्णः रूपं ज्ञापकविशेषणं यस्याः सा, कादिविद्याविग्रहेत्यर्थः । अथवा ककारः रूप वाचकं येषां ते ककाररूपाः हिरण्यगर्भः उदकम् उत्तमाङ्गं सुखादयश्च । हिरण्यगर्भनिष्ठजगद्धारकजगकर्तृत्वादिगुण- वत्त्वं ककारस्य व्यञ्जनादिमवर्णत्वेन वर्तत इति तद्वाच्य- तया तथा । उदकनिष्ठमन्नादिद्वारा जगत्सञ्जीवनहेतुत्वमपि ककारस्य विद्याग्रिमवर्णतयास्तीति तद्रूपा वा । सर्वेषां प्राणिनां शिरस्यमृतमस्तीति योगमार्गेण कुण्डलिनीगमने तत्रत्यतत्प्रवाहाप्लुतयोगिनामीश्वरसाम्यं जायत इति योगशा- स्त्रेषु प्रसिद्धम् । तद्वत् कवर्णः मन्त्रादिमभागस्थः तत्पु-