पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
ललितात्रिशतीभाष्यम् । ।


तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४ ॥

पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५ ॥

अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ १६ ॥

चित्तपर्याप्तिरेतस्य नान्यथा संभविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥

सूत उवाच-
इत्युक्त्वान्तरधादम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसभवम् ॥ १८ ॥

संस्थाप्य निकटे वाचमुवाच भृशविस्मितः ।
हयग्रीव उवाच--
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९ ॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्रये।
येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥ २० ॥