पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
ललितात्रिशतीभाष्यम् ।

अगस्त्य उवाच-

हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ १ ॥

रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २ ॥

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥

किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ॥ ४ ॥

सूत उवाच-
समाललम्बे तत्पादयुगलं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५ ॥

मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ॥ ६ ॥

तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।