पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
गुर्वष्टकम् ।


अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्शेन्न लग्न गुरोरङ्ध्रिपद्मे
तत किं तत किं तत किं तत किम् ॥८॥

गुरोरष्टक य पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाञ्छितार्थं पद ब्रह्मसज्ञ
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥९॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ गुर्वष्टक संपूर्णम् ॥