पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
अर्धनारीश्वरस्तोत्रम् ।


विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नम शिवायै च नम शिवाय ॥४॥

मन्दारमालाकलितालकायै
कपालमालावितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नम शिवायै च नम शिवाय ॥५॥

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नम शिवायै च नम शिवाय ॥६॥

प्रपञ्चसृष्ट्युन्मुखलास्यकाचे
समस्तसहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे
नम शिवायै च नम शिवाय ॥७॥