पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ अर्धनारीश्वरस्तोत्रम् ॥


चाम्पेयगौरार्धशरीरकायै
कर्पूरगौराधशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नम शिवाय ॥१॥

कस्तूरिकाकुङ्कुमचर्चितायै
चितारज पुञ्जविधर्चिताय ।
कृतस्मरायै विकृतस्मराय
नम शिवायै च नम शिवाय ॥२॥

झणस्कणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय
नम शिवायै च नम शिवाय ॥३॥