पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३१
द्वादशलिङ्गस्तोत्रम् ।


कावेरिकानर्मदयो पवित्र
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त
मोंकारमीश शिवमेकमीढे ॥४॥

पूर्वोत्तरे पारलिकाभिधाने
सदाशिव त गिरिजासमेतम् ।
सुरासुराराधितपादपद्म
श्रीवैद्यनाथ सतत नमामि ॥५॥

आमर्दसज्ञे नगरे च रम्ये
विभूषिताङ्ग विविधैश्च भोगै ।
सद्भुक्तिमुक्तिप्रदमीशमेक
श्रीनागनाथं शरणं प्रपद्ये ॥६॥

सानन्दमानन्दवने वसन्त
मानन्दकन्द हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथ
श्रीविश्वनाथं शरणं प्रपद्ये ॥७॥