पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२१
अमराम्बाष्टकम् ।

कर्पूरागरुकुङ्कुमाङ्कितकुचा कर्पूरवर्णस्थिता
कृष्टोत्कृष्टसुकृष्टकमदहना कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदया कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ८ ॥

गायत्रीं गरुडध्वजा गगनगा गान्धर्वगानप्रिया
गम्भीरा गजगामिनीं गिरिसुता गन्धाक्षतालकृताम् ।
गङ्गागौतमगर्गसनुतपदा गा गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ भ्रमराम्बाष्टकं सपूर्णम् ॥