पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ भ्रमराष्टकम् ॥



चाञ्चल्यारुणलोचनाश्चितकृपाचन्द्राकचूडामणिं
चारुस्मेरमुखा चराचरजगत्सरक्षणीं तत्पदाम् ।
पञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जिता
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥१॥

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थली
कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनी भगवतीं श्रीमातर भावये ॥२॥

राजन्मत्तमरालमन्दगमना राजीवपत्रेक्षणा
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचा राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातर भावये ॥३॥