पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ हनुमत्पञ्चरत्नम् ॥


वीताखिलविषयेच्छं
 जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताद्यं
 वातात्मजमद्य भावये हृद्यम् ॥ १ ॥

तरुणारुणमुखकमलं
 करुणारसपूरपूरितापाङ्गम् ।
सजीवनमाशासे
 मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥

शम्बरवैरिशरातिग-
 मम्बुजदलविपुललोचनोदारम् ।
कम्बुगलमनिलदिष्टं
 बिम्बज्वलितोष्ठमेकमवलम्बे ॥ ३ ॥