पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ षट्पदीस्तोत्रम् ॥


अविनयमपनय विष्णो
दमय मन शमय विषयमृगतृष्णाम् ।
भूतदया विस्वारय
तारय ससारसागरत ॥१॥

दिव्यधुनीमकरन्दे
परिमलपरिभोगसच्चिदानन्द ।
श्रीपतिपदारविन्दे
भवभयखेदच्छिदे वन्दे ॥२॥

सत्यपि भेदापगमे
नाथ तवाहन मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गं
क्वचन समुद्रो न तारङ्गं ॥३॥