पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ प्रातःस्मरणस्तोत्रम् ॥


प्रात स्मरामि हृदि संस्फुरदात्मतत्त्वं
 सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यस्तु प्रजागरसुषुप्तमवैति नित्यं
 तद्ब्रह्म निष्कलमह न च भूतसङ्घ ॥ १ ॥

प्रातभजामि मनसा वचसामगम्यं
 वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेति नेति वचनैर्निगमा अवोच
 स्त देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥

प्रातर्नमामि तमस परमर्कवर्णें
 पूर्णें सनातनपद पुरुषोत्तमारयम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
 रज्ज्वा भुजगम इव प्रतिभासित वै ॥ ३ ॥